top of page
खोज करे

संस्कृत गीत-Sanskrit Songs

संस्कृत गीत



सुजलाम् सुफलाम् मलयज शीतलाम्

शस्य-श्यामलाम् मातरम्॥ वन्दे मातरम्॥ १॥

शुभ्र-ज्योत्सनां पुलकित यामिनीम्

फुल्ल कुसुमित द्रुमदल शोभिनीम्

सुहासिनीम् सुमधुर-भाषिणीम्।

सुखदाम् वरदाम् मातरम्॥ वन्दे मातरम्॥ २॥

कोटि-कोटि कंठ कल-कल निनाद कराले

कोटि-कोटि भुजैर्धृत खरकरवाले,

अबला केनो माँ एतो बोले

बहुबल धारिणीम् नमामि तारिणीम्

रिपुदलवारिणीम् मातरम्॥ वन्दे मातरम्॥ ३॥

तुमि विद्या तुमि धर्म

तुमि हृदि तुमि मर्म

त्वं हि प्राणा: शरीरे

बाहु ते तुमि मां शक्ति

हृदये तुमि मां भक्ति

तोमारइ प्रतिमा गङि मंदिरे मंदिरे॥ वन्दे मातरम्॥ ४॥

त्वं हि दुर्गा दशप्रहरणधारिणीम्

कमला कमलदल विहारिणी

वाणी विद्यादायिनी, नमामि त्वां, नमामि कमलाम्।

अमलाम्, अतुलाम्, सुजलाम्, सुफलाम्, मातरम्॥ ५॥

श्यामलाम्, सरलाम्, सुस्मिताम्, भूषिताम्

धरणीम्, भरणीम्, मातरम्॥ वन्दे मातरम्॥ ६॥


मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्राम: सिद्धवनम्।

यत्र च बाला देवीरूपा बाला: सर्वे श्रीरामा:॥

हरिमन्दिरमिदमखिलशरीरम्

धनशक्ती जनसेवायै

यत्र च क्रीडायै वनराज:

धेनुर्माता परमशिवा॥

नित्यं प्रात: शिवगुणगानं

दीपनुति: खलु शत्रुपरा॥ ॥ मृदपि॥

भाग्यविधायि निजार्जितकर्म

यत्र श्रम: श्रियमर्जयति।

त्यागधनानां तपोनिधीनां

गाथां गायति कविवाणी

गंगाजलमिव नित्यनिर्मलं

ज्ञानं शंसति यतिवाणी॥ ॥ मृदपि॥

यत्र हि नैव स्वदेहविमोह:

युद्धरतानां वीराणाम्।

यत्र हि कृषक: कार्यरत: सन्

पश्यति जीवनसाफल्यम्

जीवनलक्ष्यं न हि धनपदवी

यत्र च परशिवपदसेवा॥ ॥ मृदपि॥

-श्री जर्नादन हेगडे

मनसा सततं स्मरणीयम्

 वचसा सततं वदनीयम्

 लोकहितं मम करणीयम् ॥ लोकहितं॥

 न भोगभवने रमणीयम् न च सुखशयने शयनीयनम् अहर्निशं जागरणीयम् लोकहितं मम करणीयम् ॥ मनसा॥

 न जातु दु:खं गणनीयम् न च निजसौख्यं मननीयम् कार्यक्षेत्रे त्वरणीयम् लोकहितं मम करणीयम् ॥ मनसा॥

 दु:खसागरे तरणीयम् कष्टपर्वते चरणीयम् विपत्तिविपिने भ्रमणीयम् लोकहितं मम करणीयम् ॥ मनसा॥

 गहनारण्ये घनान्धकारे बन्धुजना ये स्थिता गह्वरे तत्रा मया संचरणीयम् लोकहितं मम करणीयम् ॥ मनसा॥


जय जय हे भगवति सुरभारति तव चरणौ प्रणमाम:।

नादब्रह्मïमयि जय वागीश्वरि शरणं ते गच्छाम:

त्वमसि शरण्या त्रिभुवनधन्या वन्दित-सुर-मुनि-चरणा

नवरसमधुरा कवितामुखरा स्मित-रुचि-रुचिराभरणा॥

जय जय हे……………………(१)


आसीना भव मानसहंसे कुंद-तुहिन-शशि धवले

हर जडतां कुरु बुद्धिविकासं सित पंकज तनु विमले॥

जय जय……………………….(२)

ललितकलामयि ज्ञानविभामयि वीणा-पुस्तक-धारिणि

मतिरास्तां न:तव पदकमले अयि कुण्ठाविषहारिणि

जय जय हे……………………(३)

-डॉ नारायणभट्ट


भाति मे भारतम्, भाति मे भारतम्।

भूतले भाति मेऽनारतं भारतम् ।। ध्रुवकम्।।

मानवामानितं दानवाबाधितं

निर्जराराधितं सज्जनासाधितम्।

पण्डितै: पूजितं पक्षिभि: कूजितं

भूतले भाति मेऽनारतं भारतम्।। (१)


यस्य संदृश्य संदृश्य शोभा नवा

यस्य संस्मृत्य संस्मृत्य गाथा नवा:।

रोमहर्षो नृणां जायते वै सतां

भूतले भाति तन्मामकं भारतम्।। (२)


यच्च विश्रामभूमिर्मतं प्राणिनां

यस्य चित्ते प्रभ्तोऽवकाशस्तथा।

यत्र चागत्य गन्तुं न कोऽपीच्छुको

भूतले भाति तन्मामकं भारतम्।। (३) 


पण्डितैर्योद्धभिर्वाणिजै: कार्मिकै:

शस्त्रिभि: शास्त्रिभिवर्णिभिर्गोहिभि:।

वानप्रस्थैश्च संन्यासिभिर्मण्डितं

भूतले भाति मेऽनारतं भारतम्।। (४)

 

#संस्कृत गीत #SANSKRITGEET #Sanskritgeet


 
 
 

टिप्पणियां

5 स्टार में से 0 रेटिंग दी गई।
अभी तक कोई रेटिंग नहीं

रेटिंग जोड़ें

नमो नमः

एक भारत, नेक भारत, अनेक परंपराएं

  • YouTube
  • Facebook
  • Whatsapp
  • Instagram
  • Twitter
  • LinkedIn

© 2025 संस्कृत का उदय

bottom of page